|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.172. अध्यायः 172
Mahabharata - Vana Parva - Chapter Topics
अर्जुनस्य निवातकवचैः सह युद्धम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
अर्जुन उवाच। 3-172-0x(2315)(22548)
ततो निवातकवचाः सर्वेवेगेन भारत।
अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे ॥ 3-172-1(22549)
आच्छाद्य रथपन्थानमुत्क्रोशन्तो महारथाः।
अवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन् ॥ 3-172-2(22550)
ततोऽपरे महावीर्याः शूलपट्टसपाणयः।
शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि ॥ 3-172-3(22551)
सुमहत्तुमुलं वर्षं गदाशक्तिसमाकुलम्।
अनिशं सृज्यमानं तैरपतन्मद्रथोपरि ॥ 3-172-4(22552)
अन्ये मामभ्यधावन्त निवातकवचा सुधि।
शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः ॥ 3-172-5(22553)
तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः।
गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे ॥ 3-172-6(22554)
ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः।
ततो मातलिना तूर्णं हयास्ते संप्रयोदिताः ॥ 3-172-7(22555)
अथ मार्गान्बहूस्तत्र विचेरुर्वातरंहसः।
सुसंयता मातलिना प्रामथ्नन्त दितेःसुतान् ॥ 3-172-8(22556)
शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे।
तदा मातलिना यथ्ता व्यचरन्नल्पका इव ॥ 3-172-9(22557)
तेषां चरणपातेन रथनेमिस्वनेन च।
मम बाणनिपातैश्च हतास्ते शतशोऽसुराः ॥ 3-172-10(22558)
गतासवस्तथैवान्ये दानवाः पाण्डवर्षभ।
हतसारथयस्तत्र व्यकृष्यन्त तुरंगमैः ॥ 3-172-11(22559)
ते दिशो विदिशः सर्वे प्रतिरुध्य प्रहारिणः।
अभ्यघ्नन्विविधैः शस्त्रैस्ततो मे व्यथितं मनः ॥ 3-172-12(22560)
ततोऽहं मातलेर्वीर्यमद्भुतं समदर्शयम्।
अश्वांस्तथा वेगवतो यदयत्नादधारयत् ॥ 3-172-13(22561)
ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे।
चिच्छेद सायुधान्राजञ्छतशोऽथ सहस्रशः ॥ 3-172-14(22562)
एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन्।
प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः ॥ 3-172-15(22563)
वध्यमानास्ततस्तैस्तु हयैस्तेन रथेन च।
अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथाऽपरे ॥ 3-172-16(22564)
स्पर्धमाना इवास्माभिर्निवातकवचा रणे।
शरवर्षैः शरार्तं मां महद्भिः प्रत्यवारयन् ॥ 3-172-17(22565)
शरवेगैर्निहत्याहमस्त्रैः शरविघातिभिः।
ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः ॥ 3-172-18(22566)
ततः संपीड्यमानास्ते क्रोधाविष्टा महासुराः।
अपीडयन्मां सहिताः शक्तिशूलासिवृष्टिभिः ॥ 3-172-19(22567)
ततोऽहमस्त्रं प्रायुञ्जं गान्धर्वं नाम भारत।
दयितं देवराजस् माधवं नाम भारत ॥ 3-172-20(22568)
ततः खङ्गांस्त्रिशूलांश्च तोमरांशच् सहस्रशः।
अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिदम् ॥ 3-172-21(22569)
छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः।
प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः ॥ 3-172-22(22570)
गाण्डीवाद्धि तदा सङ्ख्ये यथा भ्रमरपङ्क्तयः।
निष्पतन्ति महाबाणास्तन्मातलिरपूजयत् ॥ 3-172-23(22571)
तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव।
अवाकिरन्मां बलवत्तानहं व्यधमं शरैः ॥ 3-172-24(22572)
वध्यमानास्ततस्ते तु निवातकवचाः पुनः।
शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन् ॥ 3-172-25(22573)
शरवेगान्निहत्याहमस्त्रैरस्त्रविघातिभिः।
ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः ॥ 3-172-26(22574)
तेषां छिन्नानि गात्राणि विसृजन्तिस्म शोणितम्।
प्रावृषीवाभिवृष्टानि शृङ्गाण्यथ धराभृताम् ॥ 3-172-27(22575)
इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः।
मद्वाणैर्वध्यमानास्ते समुद्विग्राः स्म दानवाः ॥ 3-172-28(22576)
शतधा भिन्नदेहास्ते क्षीणप्रहरणौजसः।
ततो निवातकवचा मामयुध्यन्त मायया ॥ 3-172-29(22577)
इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः ॥ 172 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-172-9 शताः शतानि अयुतमित्यर्थः। हरयोऽश्वाः ॥ 3-172-14 चिच्छेद अहमिति शेषः ॥ 3-172-20 माधवं नाम मधोर्दैत्यस् वधार्धं निर्मितत्वात्। देवराजस्य ब्रह्मदण्डसमंरणे इति ध. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|